३६८

वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवा साम्राज्याय मरुतस्सार्ववश्याय साध्याश्चाप्त्याश्च पारमेष्ठ्याय ।

तमेवं सन्तं पिता प्रजापतिरभ्येवाशयत् ।

स वसूनब्रवीदिमं मे प्रयच्छतेति ।

तेऽब्रुवन्न शक्ष्यामः पितरं प्रजापतिं हिंसितुमिति ।

रुद्रा नब्रवीन् । नाकामयन्त ।

आदित्यानब्रवीन् । नैवाकामयन्त ।

अथ मरुतोऽब्रवीत्किमस्माकं तत स्यादिति ।

यन्म इदं निष्केवल्यं माध्यन्दिनं सवनं तन्मे युष्माभिस्साधारणं भविष्यतीति ।

तथेति ।

तमस्मा अभिप्रद्य प्रायच्छन् ।

तस्यैतच्चन्द्रं मे चन्द्रं म इत्येव वदत एतत्तेज आदत्त येनैष एतत्तपति ।

स यच्चन्द्रं म इत्यब्रवीत्तस्माच्चन्द्र माः ।

तस्य ह स्म यत्स पुनः पुनरादत्ते स ह स्म तादृश एव परिशिष्यते ।

तस्मादेतस्याप्यद्यास्त्येवाभा ।

यथैष एतद्दिवा तपत्येवमेष रात्रिं भाति ।

तमवैदक्षय्यो वा अयमिति ।

तमुदार्जत ।

तमब्रवीन्मा मा त्वं ततः प्रत्यातप्सीरिति ।

नेत्यब्रवीत्प्रत्येव त्वातप्स्यानीति ।

तस्मादेतमुभयोरहोरात्रयोः पश्यन्ति ।

प्रति हैनं तदातपन्ति ।

तौ हैतौ पितापुत्रावेव यच्चन्द्र माश्चादित्यश्च ।

पिता चन्द्र मा । आदित्यः पुत्रः ।

परश्चन्द्र मा । अपर आदित्यः ।

तौ हैतौ सर्वासां देवतानां श्रेष्ठतां गतौ ।

तद्यथैतौ सर्वासां देवतानां श्रेष्ठतां गतावेवमेव स्वानां श्रेष्ठतां गच्छति य एवं वेद ।

इत्यधिदेवतमथाध्यात्मम् ।

अयमेव चन्द्र मा । अयमादित्यः ।

तद्वेवमध्यात्ममुपासितव्यम् ।

तद्वेव भृगुचक्षुषम् ।

स यं द्विष्यात्तं ब्रूयाद्भृगुचक्षुषेण त्वेक्ष इति ।

न हैव भोग्य इव भवति ३६८