३६७

ता उत्तानशय्यामपश्यत् ।

स शीर्ष्णैवमौ प्राञ्चावगृह्णाद् । बाहुभ्यामिमान्नाना । पद्भ्यां प्रत्यञ्चावुरसोर्ध्वौ । प्रष्टिभिरवाञ्चौ ।

तानेवं गृहीत्वाधस्तात्पर्यौहत ।

स एष ऋतुषु च संवत्सरे चैतस्यां श्रियामध्यूढस्तपति ।

तं पुनरनेन सह सर्वेण प्राविशत् ।

तमब्रवीदेकं वाव त्वाग्रे नाशकमुद्यन्तुम् ।

न वै त्वानेन सह सर्वेण शक्ष्यास्युद्यन्तुं । जायस्वैवेति ।

तस्मिन्नापस्सिंसिमायत्पर्यपश्यत् ।

सोऽब्रवी स वै नु मे प्रयच्छेमा नु म अपः प्रयच्छाथ जनिष्य इति ।

तस्मै षट्सहस्राण्यपां प्रायच्छत् ।

तस्यैष श्लोको

न ता अन्यः प्र तरति नैनाविष्णातुमर्हति ।

वहन्त्यस्मिन्सर्वतो मधु क्षीरं घृतं दधि षट्सहस्राण्यम्बयाः

इति ।

इमा ह वै ता अम्बया नामैता एव दिशः ।

एता एवास्मै सहस्रं सहस्रं क्षरन्त्य् । एता एवैनं तर्पयन्ति ।

सोऽजायत ।

तं जातमुपामदत्

तेजोऽजनीन्द्रि यमजनि वीर्यमजनि ब्रह्माजनि क्षत्रमजनि सप्तानां पशूनां यन्ताजनि सप्तानी दिशां धर्ताजनि जातोऽजनि जनिताजनि जानित्रिरजनी

ति ।

अपि हात्मानमुपामादयज्जानित्रिरित्युवाच ।

उपमाद्यो ह भवति य एवं वेद ।

तस्मै जातायैतां राजासन्दीं न्यदधुः ।

तस्यामेनमभ्यष्ञ्चन्त ३६७