३६६

वासन्तिकौ मासौ प्रयच्छेति ।

एतौ ते प्रयच्छानीत्यन्नमन्नमिति पतित्वास्यै प्राच्यै दिशौ रथन्तरं भा आदत्त ।

तदितोऽधत्त ।

षको द्वयोर्वीर्यं दत्ते य एवं वेद ।

तं पुनरेव प्राविशत् ।

तमब्रवीज्जायस्वैवेति ।

सोऽब्रवीत्स वै नु मे प्रयच्छेमौ नु मे ग्रैष्मौ मासौ प्रयच्छेति ।

एतौ ते प्रयच्छानीत्यन्नमन्नमित्येव पतित्वास्यै दक्षिणायै दिशो बृहद्भा आदत्त ।

तदितोऽधत्त ।

षकश्चतुर्णां वीर्यं दत्ते य एवं वेद ।

तं पुनरेव प्राविशत् ।

तमब्रवीज्जायस्वैवेति ।

सोऽब्रवीत्स वै नु मे प्रयच्छमौ नु मे वार्षिकौ मासौ प्रयच्छेति ।

एतौ ते प्रयच्छानीत्यन्नमन्नमित्येव पतित्वास्यै प्रतीच्यै दिशो वैरूपं भा आदत्त ।

तदितो अधत्त ।

षकष्षण्णां वीर्यं दत्ते य एवं वेद ।

तं पुनरेव प्राविशत् ।

तमब्रवीज्जायम्वैवेति ।

सोऽब्रवीत्स वै नु मे प्रयच्छेमौ नु मे शारदौ मासौ प्रयच्छति ।

एतौ ते प्रयच्छानीत्यन्नमन्नमित्येव पतित्वास्या उदीच्यै दिशो वैराजं भा आदत्त ।

तदितोऽधत्त ।

षकोऽष्टानां वीर्यं दत्ते य एवं वेद ।

तम्पुनरेव प्राविशत् ।

तमब्रवीज्जायस्वैवति ।

सोऽबवीत्स वै नु मे प्रयच्छेमौ नु मे हैमन्तिकौ मासौ प्रयच्छति ।

एतौ ते प्रयच्छानीत्यन्नमन्नमित्येव पतित्वास्या ऊर्ध्वायै दिशश्शाक्वरं भा आदत्त ।

तदितोऽधत्त ।

षको दशानां वीर्यं दत्ते य एवं वेद ।

तं पुनरेव प्राविशत् ।

तमब्रवीज्जायस्वैवेति ।

सोऽब्रवीत्स वै नु मे प्रयच्छेमौ नु मे शैशिरौ मासौ प्रयच्छेति ।

एतौ ते प्रयच्छानीत्यन्नमन्नमित्येव पतित्वास्यै दिशो रैवतं भा आदत्त ।

तदितोऽधत्त ।

षको द्वादशानां वीर्यं दत्ते य एवं वेद ।

स षक्षत कथं न्विमानृतून्गृह्णीयामिति ३६६