गौर्वीतं ह पप्रच्छुस्त्वं ह वै ददर्शिथेन्द्रं जायमानमिति ।
स हैतदुवाच
अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् ।
मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद
इत्योजसोऽन्वाहं जातं मन्य इति होवाच ।
इन्द्र स्त्वेव तद्वेद यतस्स जात इति ।
स शिरो निर्हृत्य व्यैक्षत ।
स इदमेषां सर्वं स्पृतमपश्यत् ।
सोऽब्रवीद्यदिदमेषां सर्वं स्पृतं । कं लोकमभि जायै स वै नु मे प्रयच्छ ।
इमौ नु मे ३६५