३६४

ता एता देवता सृष्टा स्तोमा छन्दांस्यृतवो ग्रहाः ।

पृथगेवैषामिमा श्रियो दीप्यमाना अतिष्ठन् । नान्योन्यस्य श्रेष्ठताया अतिष्ठन्त ।

तेऽब्रुवन्न वा अन्योऽन्यस्य श्रेष्ठतायै तिष्ठामहै ।

एत तमिच्छामहै यो न ईशाता इति ।

ते प्रजापतिमेव जनयितारमेत्याब्रुवन्न वा अन्योऽन्यस्य श्रेष्ठतायै तिष्ठामहै ।

तन्नस्सृजस्व यो न ईशाता इति ।

स प्रजापतिरब्रवीदेतावद्वाव त्यस्मिंस्तेज इन्द्रि यं वीर्यमभूद्यद्युष्मानसृक्षि ।

ते वै संवत्सरं तप्यध्वम् ।

ते मा संवत्सरं तप्त्वोपसमेत यदेकोऽधिगच्छति यदेको यदेक इति ।

ते संवत्सरमतप्यन्त ।

तं संवत्सरं तप्त्वोपसमायन् ।

यदेकोऽध्यगच्छद्यदेको यदेकस्तदस्य मन्यौ योनावसिञ्चन् ।

तत इन्द्र स्सम्भवत् ।

तदेषाभ्यनूच्यते

अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् ।

मन्योरियाय हर्म्येषू तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद

इति ।

मन्योरियायेति यदस्य मन्यौ योनावसिञ्चन् ।

हर्म्येषु तस्थाविति हृदयान्यु वै हर्म्याणि ।

हृदयो ह वै क्रुध्यति ।

ओजसो जातमुत मन्य एनम्

इति ३६४