३६३

अथ ज्यृग्भ्यामार्च्छत् ।

तस्मात्पशवः शैशिर ऋतौ ज्यृग्भ्यामृच्छन्ति ।

स षक्षत यमिमं त्रयं चेदमसृक्षि हन्तास्मात्सृजा इति ।

स त्रिवृता स्तोमेन गायत्रीमध्यैत् ।

ततो वसूनसृजत ।

त इमां दिशमन्वायन् ।

पञ्चदशेन स्तोमेन त्रिष्टुभमध्यैत् ।

ततो रुद्रा नसृजत ।

त इमां दिशमन्वायन् ।

स सप्तदशेन स्तोमेन जगतीमध्यैत् ।

तत आदित्यानसृजत ।

त इमां दिशमन्वायन् ।

एकविंशेन जगतीमध्यैत् ।

तत आदित्यानसृजत ।

त इमां दिशमन्वायन् ।

एकविंशेन स्तोमेनानुष्टुभमध्यैत् ।

ततो विश्वान्देवानसृजत ।

त इमां दिशमन्वायन् ।

त्रिणवेन स्तोमेन पङ्क्तिमध्यैत् ।

ततो मरुतोऽसृजत ।

त इमां दिशमन्वायन् ।

त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसमध्यैत् ।

ततस्साध्यांश्चाप्त्यांश्चासृजत ।

तईमां दिशमन्वायन् ३६३