३६२

तावब्रवीत्सृज्येथामिति ।

कां दिशं ततेति ।

इमामिति ।

तावोमित्येतया वाचासृज्यत ।

तयोस्तदेवान्नमासीत् । तज्ज्योतिस् । तदाभ्यामातपत् ।

ततस्तौ राष्ट्रमभवताम् ।

राष्ट्रं ह वै भवति य एवं वेद ।

स मनसैव पुनरात्मानमध्यैत् ।

तस्मिन्द्वौ द्र प्सौ समभवतां ग्रैष्मौ मासौ ।

तावब्रवीत्सृज्येथामिति ।

कां दिशं ततेति ।

इमामिति ।

तावोमित्येतयैव वाचासृज्यत ।

तावेतस्यां दिशि पतित्वा प्रत्यतिष्ठताम् ।

तौ बृहद्भा अन्वसृज्यत ।

तयोस्तदेवान्नमासीत्तज्ज्योतिस् । तदाभ्यामातपत् ।

राष्ट्रं ह वै भवति य एवं वद ।

स मनसैव पुनरात्मानमध्यैत् ।

तस्मिन्द्वौ द्र प्सौ समभवतां वार्षिकौ मासौ ।

तावब्रवीत्सृज्येथामिति ।

कां दिशं ततेति ।

इमामिति ।

तावोमित्येतयैव वाचासृज्यत ।

तावेतस्यां दिशि पतित्वा प्रतिष्ठताम् ।

तौ वैरूपं भा अन्वसृज्यत ।

तयोस्तदेवान्नमासीत् । तज्ज्योतिस् । तदाभ्यामातपत् ।

ततस्तौ राष्ट्रमभवताम् ।

राष्ट्रं ह वै ति य एवं वेद ।

स मनसैव पुनरात्मानमध्यैत् ।

तस्मिन्द्वौ द्र प्सौ समभवतां शारदौ मासौ ।

तावब्रवीत्सृज्येथामिति ।

कां दिशं ततेति ।

इमामिति ।

तावोमित्येतयैव वाचासृज्यत ।

तावेतस्यां दिशि पतित्वा प्रत्यतिष्ठताम् ।

तौ वैराजं भा अन्वसृज्यत ।

तयोस्तदेवान्नमासीत् । तज्ज्योतिस्तदाभ्यामातपत् ।

ततस्तौ राष्ट्रमभवताम् ।

राष्ट्रे ह वै भवति य एवं वेद ।

स मनसैव पुनरात्मानमध्यै ।

तस्मिन्द्वौ द्र प्सौ समभवतां हैमन्तिकौ मासौ ।

तावब्रवीत्सृज्येथामिति ।

तावोमित्येतयैव वाचासृज्यत ।

तावेतस्यां दिशि पतित्वा प्रत्यतिष्ठताम् ।

तौ शाक्वरं भा अन्वसृज्यत ।

तयोस्तदेवान्नमासीत् । तज्ज्योतिस् । तदाभ्यामातपत् ।

ततस्तौ राष्ट्रमभवताम् ।

राष्ट्रं ह वै भवति य एवं वेद ।

स मनसैव पुनरात्मानमध्यैत् ।

तस्मिन्द्वौ द्र प्सौ समभवतां शैशिरौ मासौ ।

तावब्रवीत्सृज्येथामिति ।

कां दिशं ततेति ।

इमामिति ।

तावोमित्येतयैव वाचासृज्यत ।

तावेतस्यां दिशि पतित्वा प्रत्यतिष्ठताम् ।

तौ रैवतं भा अन्वसृज्यत ।

तयोस्तदेवान्नमासीत् । तज्ज्योतिस् । तदाभ्यामातपत् ।

ततस्तौ राष्ट्रमभवताम् ।

राष्ट्रं ह वै भवति य एवं वेद ३६२