३६१

तस्य हरितमधरं कपालमासीद्र जतमुत्तरम् ।

तच्छतं देवसंवत्सराञ्छयित्वा निर्भिद्यमभवत्सहस्रं वा द्युम्नान् ।

द्युम्ना ह नाम तर्ह्यप्यासुः ।

यावानेष संवत्सरस् । तावन्तस्संवत्सरस्य प्रतिमाः ।

द्युम्नैर्ह स्म संवत्सरं विजानन्ति ।

अथ ह ततः पुराहोरात्रे संश्लिष्टे एवासतुरव्याकृते ।

ते उ स्म संवत्सरं विजानन्ति ।

अथ ह ततः पुराहोरात्रे संश्लिष्टे एवासतुरव्याकृते ।

ते उ अग्निहोत्रेणैव व्याकृते ।

तदेतया वाचा निरभिद्यत स्रुवस्थे सरणे सन्यौ कपाले विजिहाथाम् ।

कं लोकमभि जाया इति ।

फळ् इत्येवदमाण्डं निरभिद्यत ।

तस्य यदधरं कपालमासीत् । सेयं पृथिव्यभवत् ।

अथ यदुत्तरमासीत् । सासौ द्यौरभवत् ।

अथ यदन्तरासीत् । तदिदमन्तरिक्षमभवत् ।

स यां जायमानो वाचमवदत् । स एव त्रयो वेदोऽभवत् ।

यद्धैवैषाग्रे किं च देवता जायमानोवाद तदु ह ब्रह्मैव बभूव ।

स षक्षत महतीं वा इमां प्रतिष्ठां असृक्षीमाल्ँ लोकान् ।

यद्वा अतस्स्रक्ष्ये वेत्स्यते वै तत्प्रतिष्ठाम् ।

हन्त सृजा इति ।

स मनसात्मानमध्यैत् ।

तस्मिन्द्वौ द्र प्सौ समभवतां वासन्तिकौ मासौ ३६१