नासदासीन्नो सदासीत्तदानीं नासीद्र जो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरमिति ।
तस्मिन्नसति सति न कस्मिंश्चन सत्यृतं ज्योतिष्मदुदप्लवत । सत्यं ज्योतिष्मदुदप्लवत । तपो ज्योतिष्मदुदप्लवत ।
तद्यदृतमिति वाक्सा । यत्सत्यमिति प्राणस्सो । यत्तप इति मनस्तत् ।
तेषामन्नमेव ज्योतिरासीत् ।
तान्येकमभवन् ।
तदेकं भूत्वैतेनान्नेन ज्योतिषाप्यायत ।
तदभवद्यथा मध्वष्ठी लावास्वासिक्ता स्यादृतिर्नैवम् ।
तदैक्षत हन्ताधस्तात्प्राणं करवा इति ।
तदधस्तात्प्राणमकुरुत । यथैष स्त्रिया अधस्तादाकाश एवम् ।
तस्मादापोऽसृज्यन्त बलवलबलित्येतया वाचा ।
तदिदमापो महत्सलिलमासीत् ।
यद्ध वा इदमाहुरापो वा इदमग्रे महत्सलिलमासीदित्येतास्ता आपः ।
त ऊर्मयस्स मास्यन्त फा३ल्फाश्लित्क्ति ।
तद्धिरण्मयमाण्डं समैषत् ३६०