तस्योषस्येव पत्नी चन्द्र मास्सोमपीथः ।
तस्मात्सपत्नीको दीक्षत ।
सा हैषा देवता दीक्षमाणस्य तेज इन्द्रि यं वीर्यं यश आदत्ते ।
स दीक्षिष्यमाण आदित्यमुपतिष्ठेत त्वं देवता दीक्षितासि ।
सा दक्षिमाणस्य तेज इन्द्रि यं वीर्यं यश आदत्से ।
मा मे तेज इन्द्रि यं वीर्यं यश आदिथाः ।
तव दीक्षं अनु दक्षि इति ।
तस्यैषा देवता दीक्षमाणस्य तेज इन्द्रि यं वीर्यं यशो नादत्ते ।
तदेतदुक्थस्यैव स्तोम्भः ।
ते येऽर्वाञ्चो रश्मयस्तैरस्येमे लोका स्तब्धा य एतस्मादर्वाञ्चोऽथ यत्किं च प्राणभृत्सशारीरम् ।
अथ य ऊर्ध्वास्तैरु अस्य ते लोका स्तब्धा य एतस्मात्पराञ्चोऽथ यत्किं चाभृतमशरीरम् ।
तद्यदेषा देवतोभयान्देवासुरानन्तरा स्तवध्वा तिष्ठति तस्मादेतत्स्तम्भः ।
स ह वै स्तब्धस्सस्तभेत ।
अथो य एनं स्तभस्योपमीमांसेत तं ब्रूयाद्या स्तब्धा देवता तस्यै त्वा वृश्च्यामीमामार्तिं न्येष्यसीति ।
तां दैवार्तिं न्येति ।
ते येऽर्वाञ्चो रश्मय एते हावशा मृत्योरन्नवन्तः ।
अथ य ऊर्ध्वास्त उ हामृतलोकाः ।
ते येऽर्वाञ्चो रश्मय एते होरयो नाम यथा नळो वासुशिर स्याद्वे अर्वा ।
अथ य ऊर्ध्वास्त उपरीयांसो नाम ।
स यथा हस्ती हस्तेनादाय पृष्ठ्येऽध्यस्येतैवमेवैषा देवतैतद्विद्वांसमुरुभी रश्मिभिरादायावरीयस्वध्यस्यते ।
तमस्येष लोको य एतस्मात्पराचीनः ३५९