३५८

स वशमेव दिव आदत्त । क्षत्रं नक्षत्राणाम् । आत्मानमन्तरिक्षस्य । रूपं वायोर् । आज्ञां मनुष्याणां । चक्षुः पशूनाम् । ऊर्जमपां । रसमोषधीनां । चरथं वनस्पतीनां । शिश्नं वयसाम् । अर्चिमग्नेर् । हृदयं पृथिव्यै । गन्धं हिरण्यस्य । स्तनयित्नुं वाचस् । सङ्गमं पितॄणां । भां चन्द्र मसः ।

तद्यदेतेषां भूतानामादत्त तदादित्यस्यादित्यत्वम् ।

आदत्ते तेजो द्विषतो भ्रातृव्यस्य य एवं वेद ।

सा हैषा देवता दीक्षिता केशवाधि कृष्णाजिना ।

तस्यै येऽर्वाञ्चो रश्मयस्तानि श्मश्रूणि । य ऊर्ध्वास्ते केशाः ।

अहोरात्रे एव कृष्णाजिने ।

तद्यद्दिविक्षयमकुरुत तस्माद्दीक्षिता ।

दिवि ह वा एष क्षयं कुरुत यो यजते ।

यां दीक्षया जितिं जयति यामृद्धिमृध्नोति । जयति तां जितिमृध्नोति ताम् ऋद्धिं य एवं वेद ३५८