३५७

तं सर्वाणि भूतानि सोऽर्यस्सोऽर्य इत्यायन् ।

तत्सोर्यस्य सोर्यत्वम् ।

सोर्यो ह वै नामैष ।

तं सूर्य इति परोक्षमाचक्षते ।

अर्यो नोऽसि भर्ता नोऽसीति हैनं स्वाश्चारणाश्चोपासते य एवं वेद ।

स यत्प्रत्यङ्ङादाय स्वरयन्वै तत्सोर्यस्य सोर्यत्वम् ।

तद्वाव स्वरस्य स्वरत्वं यत्स्वरयन्वैत् ।

ते देवा अब्रुवन्न हार्षीद्वा अयमिति ।

तदहरभवत् ।

रातं वा अस्मा अभूदिति सो एव रात्रिरभवत् ।

एतद्ध वा अहोरात्रयोर्जन्म ।

स य ए वमेतदहोरात्रयोर्जन्म वेदाप्नोत्यहोरात्रे । नैअन्मेते अतीतः ।

सर्वं ह वा इदमन्यत्पर्यन्तवत् ।

एते ह वा अपर्यन्ते यदहोरात्रे ।

ये ते वा इदं परिवर्तमाने सर्वमाप्नुतः ।

तद्यथा रथोपस्थे तिष्ठन्पक्षसि प्रत्यवेक्षेतैवमेवैतेऽहोरात्रे आदित्यलोके तिष्ठन्प्रत्यवेक्षते ।

स पितरं प्रजापतिमव्रवीत्तत यत्त इदं तेज इन्द्रि यं वीर्यं मह्यमिदं प्रयच्छेति ।

तथेति ।

तदस्मै प्रायच्छत् ।

तस्मादुत पिता पुत्रय जीवन्नेवेशां सम्प्रयच्छति ३५७