३५६

प्राच्यै दिशो रथन्तरं भा असृजन्त ।

तदग्नेर्घोषोऽन्वसृज्यत ।

तस्माद्र थन्तरस्य स्तोत्रा अग्नीन्मन्थन्ति ।

त ओमित्येतेनैवाक्षरेणास्यै दक्षिणायै दिशो बृहद्भा असृजन्त ।

तत्पर्जन्यस्य घोषोऽन्वसृज्यत ।

तस्माद्बृहत स्तोत्रे दुन्दुभीनुद्वादयन्ति ।

वर्षुकः पर्जन्यो भवति ।

त ओमित्येतेनैवाक्षरेणास्यै प्रतीच्यै दिशो वैरूपं भा असृजन्त ।

तद्वायोर्घोषोऽन्वसृज्यत ।

तस्माद्वैरूपस्य स्तोत्र आधवैराधून्वन्ति ।

अधोवात आगामुकः ।

त ओमित्येतेनैवाक्षरेणास्या उदीच्यै दिशो वैराजं भा असृजन्त ।

तद्वयसां घोषोऽन्वसृज्यत ।

तस्माद्यथा वयांसि पुनरादायं वाचं वदन्त्येवं वैराजेन पुनरादायमिव स्तुवते ।

त ओमित्येतेनैवाक्षरेणास्या ऊर्ध्वायै दिशश्शाक्वरं भा असृजन्त ।

तदपां घोषोऽन्वसृज्यत ।

तस्माच्छाक्वरस्य स्तोत्रेऽप उपनिधाय स्तुवन्ति ।

त ओमित्येतेनैवाक्षरेणास्यै दिशो रैवतं भा असृजन्त ।

तत्पशुघोषोऽन्वसृज्यत ।

तस्माद्रै वतस्य स्तोत्र पशुघोषं कुर्वन्ति । वत्सान्मातृभिस्संवाशयन्ति ।

तेऽब्रुवंस्तद्वेदाम यत इमेऽसृक्ष्महीति ।

तेऽप्स्वेव वामदेव्यं पर्यपश्यन् ।

तदाददत ।

तत्सर्वा वाचोऽन्वसृज्यन्तैकैकेतराणि पृष्ठानि ।

तानीमानि पृष्ठानि सृष्टानि दिग्भ्य आतपन् ।

एतानि ह तर्ह्यातेषुः ।

आतपति स्वेभ्य । आतपतीत्येनमाहुर्य एवं वेद ।

तानीयं देवताभ्यध्यायत् ।

येयं पुरस्तादुच्चरति पुरुषाकृतिर्ह्येषा तर्ह्यास ।

सा त्रिवृता स्तोमन गायत्र्या छन्दसा रथन्तरस्य भा आदत्त ।

तदितोऽधत्त ।

पञ्चदशेन स्तोमेन त्रिष्टुभा छन्दसा बृहतो भा आदत्त ।

तदितोऽधत्त ।

सप्तदशेन स्तोमेन जगत्या छनसा वैरूपस्य भा आदत्त ।

तदितोऽधत्त ।

एकविंशेन स्तोमेनानुष्टुभा छन्दसा वैराजस्य भा आदत्त ।

तदितोऽधत्त ।

त्रिणवेन स्तोमेन पङ्क्त्या छन्दसा शाक्वरस्य भा आदत्त ।

तदितोऽधत्त ।

त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसा रैवतस्य भा आदत्त ।

तदितोऽधत्त ।

तस्मात्सर्वाणि भूतान्यप्स्वन्ततः प्रतिष्ठितानि ।

तमादद नमादितादितेति वाचोऽवदन् ।

तदादित्यस्यादित्यत्वम् ।

मानिन्दितुस्तेज इन्द्रि यं वीर्यं तत्ते शमलमस्य निन्दिता प्रतिमुञ्चते य एवं वेद ३५६