३५५

प्रजापतिर्वा इमाल्ँ लोकानिमा दिशोऽसृजत ।

तान्सृष्ट्वोभयान्देवानसुरानसृजत ।

तान्समदविन्दत् ।

ते प्रजापतौ ब्रह्म सन्न्यदधत ।

तत्प्रजातिर्नोदयच्छत् ।

तदप्सु प्रावेशयत् ।

ते देवा असुरानजयन् ।

ते जित्वा पुनरेत्याब्रुवन्प्रजापते यन्नस्त्वयि ब्रह्म तन्नः प्रयच्छति ।

सोऽब्रवीन्न वा अहं तदुदयच्छम् ।

तदप्सु प्रावेशयमिति ।

तानप्स्वन्वभ्यवानयत् ।

तदप्स्वन्तः पर्यपश्यन्यथा पृष्ठात्ककुदुदीषिता स्यादेवम् ।

तेऽब्रुवन्सृजामहा इत इति ।

त ओमित्येतेनाक्षरेणास्यै ३५५