३५४

अथो आहुरपहतपाप्मानो वै देवाः ।

ते न स्वपन्ति ।

त उ श्रमस्य भूम्ना सममीलयन् ।

तेषामु स्वपतां प्रमत्तानामसूरास्तेज इन्द्रि यं वीर्यमादायाप्स्वन्वभ्यवानयन् ।

तद्विष्णुरन्वपश्यत् ।

तेषां ह देवानां प्रबुबुधानानामप्रियमासीत् ।

तान्विष्णुरब्रवीन्मा वोऽप्रियं भूत् ।

अहं वै तदन्वख्यमिति ।

तानप्स्वन्वभ्यवानयत् ।

तदप्स्वन्तः पर्यपश्यन्यथा पृष्ठात् ककुदुदीषिता स्यादेवम् ।

तदेताभिरेताभिरेव व्याहृतिभिरादाय विष्णवे प्रायच्छन् ।

तदिदं विष्णुस्तेज इन्द्रि यं वीर्यं धारयन्समैषत् ।

तस्माद्ध्रस्वो विष्णुः ।

तस्मादु ह्रस्वं वैष्णवं गामालभन्ते ।

स यत्र धारयन्पराक्रमत तदेव । विष्णुपदमभवत् ।

तस्माद्यो विष्णुपदीयः कैकेयस्स यज्ञ आत्तरः ।

एतं ह्यस्मिन्यज्ञमन्वविन्दन् ।

स य एतदेवं वेदा द्विषतो भ्रातृव्यस्य तेज इन्द्रि यं वीर्यं दत्ते ३५४