३५३

तमेत्येकाक्षरेण रथन्तरमाददत ।

तस्मात्तत्प्रथमेऽहन्क्रियते ।

प्रमेति द्व्यक्षरेण बृहदाददत ।

तस्मात्तद्द्वितीयेऽहन्क्रियते ।

प्रतिमेति त्र्यक्षरेणवैरूपमाददत ।

तस्मात्तत्तृतीयेऽहन्क्रियते ।

अस्रीवगिति चतुरक्षरेण वैराजमाददत ।

तस्मात्तच्चतुर्थेऽहन्क्रियते ।

सिरिकमसीति पञ्चाक्षरेण शाक्वरमाददत ।

तस्मात्तत्पञ्चमेऽहन्क्रियते ।

छर्दिरिन्द्रि यावदिति षडक्षरेण रैवतमाददत ।

तस्मात्तत्षष्ठेऽहन्क्रियते ।

आ गयं वीर्यं योनिमा दध्वं विद्वज्जनस्य छाये

ति वामदेव्यमाददत ।

तस्मात्तन्मध्यतो यज्ञस्य क्रियते ।

यत्परो योनिमतिश्च्युतितमभूत्तद्

आ दध्वं वस्विति यज्ञायज्ञीयमाददत ।

तस्मात्तत्परार्धे यज्ञस्य क्रियते ३५३