देवा वै श्रमेण तपसा वतरचर्येणासुरान्रक्षांस्यभ्यभवन् ।
तेऽसुरा विदित्वैत्परा वै ते भवन्तीति । स्त्रीरूपाण्यकुर्वत प्रथमोत्तनकाश्चण्डातकवासिनीर्यत्कल्याणतमं रूपाणां तत् ।
ता देवान्प्रत्याक्रमन्त ।
ता देवा उपन्यपादयन्त ।
न हि कस्य चन स्त्रियोऽप्रियाः ।
तेषु यदेषां तेज इन्द्रि यं वीर्यं श्रमाभिजितमासीत्तदसिञ्चन् ।
तेऽसुरा विदित्वैतदियद्वा एषां तेज इन्द्रि यं वीर्यमभूदित्यादाय प्रारवन् ।
तेषां ह देवानामप्रियमासीत् ।
रिरिचाना इवामन्यन्त ।
तेऽब्रुवन्कथं न्विदं तेज इन्द्रि यं वीर्यं पुनराददीमहीति ।
त एता व्याहृतीरपश्यन् ३५२