३५१

चन्द्र मा हैव सः ।

स उ हेव प्रजापतिः ।

तदेतत्परस्तादर्वाक्तेजो निर्मितं दीप्यमानं तिष्ठत्यग्निश्चेन्द्र श्च ।

तदिदमध्यात्मम् ।

या सा वागियं सा वाक्तामयं प्राण उपरिष्टादध्यास्ते ।

अथ यस्स प्रजानां जनयित ऋषभेऽन्नलोकेऽप्स्वन्तरयं स पुरुषः ।

ता एता समानीर्देवता इह चामुत्र च ।

ता एह गच्छन्ति । गच्छन्त्यमुत्र ।

या इमास्ता अमूर् । या अमूस्ता इमाः ।

ता ह योऽध्यात्ममुपास्ते स हानिदेवो भवति ।

तेषां हैतेष् । एं देवानां प्रजापतावात्मानस्सन्निहिताः ।

अथ हैषां प्राणानामस्मिन्पुरुष आत्मानस्सन्निहिताः ।

तमेतं पुरुषं परिगृह्य गोपायन्ति ।

तस्यैष श्लोक

ऋषभो लोको महदेव यक्षं नैवास्मात्पूर्वं न परं बभूव ।

यं देवं देवाः प्राणाः पुरुषं परिगृह्य जाग्रति स वेद लोकं पुरुषं महान्तमिति ।

इमं ह वाव तं देवं देवाः प्राणाः पुरुषं परिगृह्य जाग्रति ।

योऽयमक्षन्नन्त स हैष वामनः ।

स यो हैतं वामन इत्युपास्ते वामं वामं हैवैनमेषा देवताभिनेनीयते ।

एतस्माद्ध वा इदं राजन्यबन्धवो वामनं केन चिदवकाङ्क्षन्ति ।

एतस्यै ह देवतायै नाम्नोऽन्तिकमेनं विदुः ।

स हैष न जीर्यति ।

समावान्हैवैष यूनश्च जरसश्च ।

स हैष प्राणान्सङ्गृह्यावधूय शरीरं प्राणैस्सहोर्ध्व उत्क्रामति ।

एतेन ह वै प्रत्यूढानि मृत्युश्शरीराणि हरति ।

तस्यै हैतस्यै देवतायै यथा मृत्पिण्ड इषीकेऽधिहते स्यातामेवमेव हृदये पादावधिहतौ ।

तौ यदाच्छिनत्यथ म्रियते ।

तदिदमप्यविद्वांस आहुराच्छेद्ध्यस्येति ।

स य एतदेवं वेदाजरसं हास्मादेषा देवता नोत्क्रामति । सर्वमायुरेति ३५१