३५०

अन्धे तमसि जल्पन्तीः ।

सोऽस्यै वाच एकमक्षरमवच्छिद्य वागिति व्यसृजत ।

तं पतित्वैषां लोकानां मध्ये व्यरमत ।

तदेतन्मण्डलमभवत् ।

तदन्वानैत् ।

स प्राणोऽभवत् ।

ताभ्यो व्यौच्छत् ।

अशनायंस्त्वेव स आसामपामेकं स्तोकं प्राश्च्योतयत्कियत्स्विदाभ्योऽलं भविष्यतीति ।

स दशधाभवच्छतधा सहस्रधा यावतीयं पृथिवी तावानभवत् ।

तदभिसम्पद्य व्यमथ्नत ।

स मन्थोऽभवत् ।

तन्मन्थस्य मन्थत्वम् ।

तमशित्वोदानन् ।

स उदनोऽभवत् ।

तदुदनस्योदनत्वम् ।

तदेतद्द्वयमेवान्नस्य रूपं यच्चैव पिबति यच्चाश्नाति ।

यत्पिबति मन्थस्य तद्रू पं । यदश्नात्योदनस्य तत् ।

उभयं हास्यैतद्गृहेऽधिगम्यते यच्चैव पिबति यच्चाश्नाति य एवं वेद ।

तदाहुस्त्रय स्तोका आगच्छन्तीत्युदस्तोको घृतस्तोको मधुस्तोकः ।

ततो य उदस्तोक इमां स प्रविशत्य् । ओषधीर्घृतस्तोको । वनस्पतीन्मधुस्तोकः ।

तद्धैतं मीमांसाञ्चक्रुरामलक अकूपयेयोऽहीना आश्वत्थिः केशी दार्भ्यः किं स्तोकं त्वमागच्छन्तं मन्यसे । किं स्तोकं त्वं । किं स्तोकं त्वमिति ।

स होवाच केशी घृतस्तोकमहं मन्य इति ।

अथ होवाचाहीना मधुस्तोकमहं मन्य इति ।

अथ होवाचामलक -उदस्तोकमहं मन्य इति ।

तस्मिन्नु हैव सम्पादयाञ्चक्रुः ।

उदकाध्येवेदं सर्वं जायते ।

तद्यां तां वाचं व्यसृजत सोऽग्निः ।

अथ यं तं प्राणमन्वानैत्स इन्द्रः ।

अथ यस्स प्रजानां जनयित ऋषभेऽन्नलोकेऽप्स्वन्तः ३५०