३४९

प्रजापतिर्देवानसृजत ।

सह श्रिया वाचा च वा एनांस्तत्सहासृजतान्नेन च सहाद्भिः ।

ते देवा अन्नं श्रियं वाविदानाना वाचा यत्सधमादमिवैवासन्नन्नं हि श्रीस्सोऽशोचत् ।

स षक्षत कथं न्वहमेषामिमा श्रियस्संवृञ्जीयेति ।

तान्मनो भूत्वानुप्राविशत् ।

तेषां सर्वां श्रियं निरचिनोद्यथा बदराणि निश्चिनुयादेवम् ।

तेषां मनसा वाचमगृह्णात् ।

सैषा मनसा वाग्गृहीताप्यद्य ।

यद्ध्येव मनसा कामयते तद्वाचा वदति ।

स षक्षत केन न्वेषां रूपेण वाचमाददीयेति ।

स पुरुषरूपमकुरुत ।

तेषां पुरुषरूपेण वाचमादत्त ।

तस्मात्पुरुषस्सर्वा वाचो वदति ।

स इमा अपस्सङ्गृह्योर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष ऋषभो नामान्नलोकः ।

तदन्नं वा ऋषभः ।

यदा वा अश्नात्यथर्षभ्यति ।

स षक्षत किं नु तद्रू पं कुर्वीय यन्मेऽन्यो नाभ्यारोहेदिति ।

सोऽजः पृश्निरभवत् ।

तस्मादजं पृश्निं नाधिगच्छाम ।

तद्यास्ता अपोऽहरद्या एता उपर्याप । एता एव ताः ।

अथ यां तां वाचमहरद् । य एष उपरि स्तनयित्नुर् । एषैव सा वागथ योऽप्स्वन्तर्विद्योतते ।

स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत ३४९