३४८

उपोदको नाम लोकोऽन्ने विष्टो । मनुष्या गोप्तारो । अग्निरधिपतिर् । यदर्चिषो रूपं तद्रू पम् । अप्सु प्रतिष्ठितः ।

ऋतधामा नाम लोको वयोभिर्विष्टो । गन्धर्वाप्सरसो गोप्तारो । वायुरधिपति । श्वेतं रूपं । प्राणे प्रतिष्ठितः ।

अपराजितो नाम लोको नक्षत्रैर्विष्टश् । चन्द्र मा गोप्ता । आदित्योऽधिपतिर् । यदुद्यतश्च सूर्यस्य रूपमस्तं च यतस्तद्रू पं । मनसि प्रतिष्ठितः ।

अधिद्युर्नाम लोको यज्ञे विष्ट । आदित्या गोप्तारो । वरुणोऽधिपतिर् । नीलं रूपं यत्पर्जन्यस्य वर्षिष्यतः कृष्णं तन्नीलं । यद्वा कार्तस्वरस्य मणेर् । अनृते प्रतिष्ठितः ।

प्रद्युर्नाम लोकोऽमृते विष्टो । रुद्रा गोप्तारो । मृत्युरधिपतिर् । लोहितं रूपं यद्गौरवच्छदायै यद्वा माहारोहणस्य वासस । ऋते प्रतिष्ठितो यन्नार्च्छति तस्मिन् ।

रोचनो नाम लोकस्तपसि विष्टो । वसवो गोप्तारस्ते हि प्रथमे देवानामियुस्तस्मात्ते परार्ध्या । यज्ञोऽधिपतिर् । यत्सुवर्णस्य हिरण्यस्य रूपं तद्रू पं । सत्ये प्रतिष्ठितः ।

एते वै लोका । एते गोप्तार । एतेऽधिपतयः ।

एते हैवास्य लोका । एतेऽधिपतयो भवन्ति य एवं वेद ३४८