स उपोदको नाम लोको यस्मिन्नयमग्निः ।
अथर्तधामा यस्मिन्वायुः ।
अथ शिवो यस्मिंश्चन्द्र माः ।
अथापराजितो यस्मिन्नादित्यः ।
अथाधिद्युर्यस्मिन्वरुणः ।
अथ प्रद्युर्यस्मिन्मृत्युः ।
अथ रोचनो यस्मिन्नशनाया ।
अतो ह पराचीनमहोरात्रे नान्वितस्सकृद्विष्टा हैवातः पराचीनं यथा विद्युतोवरूपं स्याद्दार्वाचितानां वा समिद्धानामेवम् ।
अथ हैते प्रजापतिलोका एवात ऊर्ध्वाः ।
कामोऽष्टमस् । सुवर्नवमो । नाक एव दशममहः ।
इदमेवं प्रायणमद उदयनम् ।
ते हैते लोका एवैतानि द्वादशाहस्याहानि ।
स य एतदेवं वेदैते हैवास्य लोका भवन्ति ३४७