तद्यथा वृक्षं वा गिरिं वाधिरुह्य व्यवेक्षेतैवमेवैतस्माल्लोकादन्याल्ँ लोकान्व्यवेक्षते ।
स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत ।
ता द्वाभ्यां रूपाभ्यां प्रत्याद्र वन्नीलेन च सुवर्णेन च ।
तद्यत्पर्जन्यस्य वर्षिष्यतः कृष्णं तन्नीलम् ।
अथ यदप्स्वन्तर्विद्योतते तत्सुवर्णम् ।
ताभ्योऽवर्षत् ।
तत ओदनोऽजायत ।
तमशित्वोदानन् ।
स उदनोऽभवत् ।
तदुदनस्योदनत्वम् ।
उदनो ह वै नामैष ।
तमोदन इति परोक्षमाचक्षते ।
द्वितीयं ज्यायोऽन्नाद्यमजायत ।
तदभिसम्पद्य व्यमथ्नत ।
स मन्थोऽभवत् ।
तन्मन्थस्य मन्थत्वम् ।
तदेतद्द्वयमेवान्नाद्यस्य रूपं यच्चैवाश्नाति यच्च पिबति ।
यदश्नात्योदनस्य तद्रू पं । यत्पिबति मन्थस्य तत् ।
उभयं हास्यैतद्गृहेऽधिगम्यते य एवं वेद ।
तौ हैतौ प्रजापतेरेव स्तनौ यद्व्रीहिश्च यवश्च ।
ताभ्यामिमाः प्रजा बिभर्ति ३४६