सोऽहोरात्रे एवैतस्मिल्ँ लोके प्रतिनिधाय चतुश्चत्वारिंशेनोर्ध्व उदक्रामत् ।
सोऽगच्छद्यत्रैष कामो नाम लोकः ।
तत्तच्छन्दन्नाद्या अन्तरेण नदीरसृजतैतस्य पाप्मनोऽनन्वागमाय ।
ता उ एव कामदुघा अकुरुत ।
स षक्षत हन्तोर्ध्व एवोत्क्रामाणीति ।
सोऽष्टाचत्वारिंशेनोर्ध्व उदक्रामत् ।
सोऽगच्छद्यत्रैष सुवर्नाम लोकः ।
तत्तस्मिञ्ज्योगरमत बह्वस्य स्वं भवतीति ।
सास्य सुवता ।
स षक्षत हन्तेभ्यो लोकेभ्य एकं लोकं सम्भराणीति ।
स एभ्यो लोकेभ्य एकं लोकं समभरत् ।
तदेवैतद्द्वादशाहस्य दशममहरभवत् ।
सोऽब्रवीन्न वै म इदमकमभूदिति ।
यदब्रवीन्न वै म इदमकमभूदिति तन्नाकस्य नाकत्वम् ।
स एष वाव नाको यद्दशममहर् । एष स्वर्गो लोक । एतद्ब्रध्नस्य विष्टपम् ३४५