३४४

स वरुणमेवैतस्मिल्ँ लोके प्रतिनिधाय त्रयस्त्रिंशेनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष मृत्युः ।

तत्तन्मृत्युरभवत् ।

तदङ्गानि मुखमकुरुत ।

तं मृत्युं सर्वतोमुखं भूतमन्वागत्योपेक्षमाणा एवासत । अनभिधृष्णुवतीः ।

नैनं तत्रादन् ।

स षक्षत पाप्मा वा अस्मि यो मृत्युरस्मि ।

हन्तोर्ध्व एवोत्क्रामाणीति ।

स मृत्युमेवैतस्मिल्ँ लोके प्रतिनिधाय चतुर्विंशनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष रोचनो नाम लोकः ।

तत्तदशनयाभवत् ।

तमशनायां भूतं बिभ्यतीर्नान्वायन् ।

अन्वीक्षमाणा एवातिष्ठन्नसौ रोचतेऽसौ रोचतेति ।

सास्य रोचनता ।

स षक्षत पाप्मा वा अस्मि योऽशनया अस्मि ।

हन्तोर्ध्व एवोत्क्रामाणीति ।

स मृत्युमेवैतस्मिल्ँ लोके प्रतिनिधाय चतुर्विशनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष रोचनो नाम लोकः ।

तत्तदशनयाभवत् ।

तमशनायां भूतं बिभ्यतीर्नान्वायन् ।

अन्वीक्षमाणा एवातिष्ठन्नसौ रोचतेऽसौ रोचतेति ।

सास्य रोचनता ।

स षक्षत पाप्मा वा अस्मि योऽशनया अस्मि ।

हन्तोर्ध्व एवोत्क्रामाणीति ।

सोऽहोरात्रे प्रतिन्यदधात् ।

ते एव पिपासा चाशनाया चाभवताम् ।

अहर्ह पिपासा । रात्रिरशनाया ।

तद्यथा द्वारफलके प्रतिनिहिते स्यातामेवमेवैतेऽहोरात्रे प्रतिनिहिते अनत्ययनाय ।

ते उ ह त्वेवंविदमेवात्यर्जयतः ३४४