३४३

स चन्द्र मसमेवैतस्मिल्ँ लोके प्रतिनिधाय एकविंशेनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष आदित्यः ।

तत्तद्वसृजतो एव विश्वान्देवान् ।

तदन्तमसृजतान्विमे समगच्छन्नभ्यमी समपतन् ।

तमत्तुमेवाध्रियन्त ।

स षक्षत हन्तोर्ध्व एवोत्क्रामाणीति ।

स आदित्यमेवैतस्मिल्ँ लोके प्रतिनिधाय त्रिणवेनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष वरुणः ।

तेत्तन्नासृजत ।

तमन्वेवागच्छन् ।

तमत्तुमेवाध्रियन्त ।

स षक्षत हन्तोर्ध्व एवोत्क्रामाणीति ३४३