३४२

तमस्मिल्ँ लोके प्रतिनिधाय पञ्चदशेनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष वायुः ।

तत्तद्वसृजतो एव रुद्रा न् ।

अन्विमे समगच्छन्नभ्यभी समपतन् ।

तमत्तुमेवाध्रियन्त ।

स षक्षत हन्तोर्ध्व एवोत्क्रामाणीति ।

स वायुमेवैतस्मिल्ँ लोके प्रतिनिधाय सप्तदशेनोर्ध्व उदक्रामत् ।

सोऽगच्छद्यत्रैष चन्द्र माः ।

तत्तद्वसृजतो एवादित्यान् ।

अन्विमे समगच्छन्नभ्यमी समपतन् ।

तमत्तुमेवाध्रियन्त ।

स षक्षत हन्तोर्ध्व एवोत्क्रामाणीति ३४२