३४१

एका ह वाव देवता स्वयम्भूः प्रजापतिरेव ।

सोऽकामयत बहु स्यां प्रजायेयेति ।

सोऽस्मिल्ँ लोके त्रिवृता स्तोमेन देवानसृजत वसून् ।

तमभि समपतन् ।

स्वादु स्वादुरिति तमादन् ।

तमधयन्यथा वत्सो जातो मातरं धयेदेवम् ।

स षक्षत यदि वा इह भविष्यामि क्षेष्यन्ति मा । हन्तोर्ध्व उत्क्रामाणीति ।

स उ वा षक्षत हन्तो नु संसृजेय यं मां मन्यमाना यं पश्यन्तीरिमा इहोपरमेरन्निति ।

सोऽग्निमसृजत ३४१