स मनोमयः प्राणमयश्चक्षुर्मय श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस्साममयो ब्रह्ममयो हिरण्मयोऽमृतः प्रजापतिस्समभवत् ।
एषैव विद्युत् ।
स एष एव त्रयो वेदः ।
योर्ध्वा विद्युत्तानि सामानि । या तिरश्ची ता ऋचो । यदभीक्ष्णं मन्मलायति तद्यजुः ।
स य एतदेवं वेदैषैव देवता भवति ।
एषा ह वै देवता संस्तुतो यज्ञो भवति ।
तद्यत्पृच्छेयुः का देवता संस्तुतो यज्ञो भवतीति । विद्युदिति ह ब्रूयात् ।
एषा ह वै देवता संस्तुतो यज्ञो भवति ।
तस्माद्यदि व्यूढछन्दसा द्वादशाहेन यजेत ।
यजेतो एव समूढछन्दसा ।
उभाभ्यां ह त्वावेष्टं भवत्येवंविदः ३४०