३३९

प्रजापतिर्वावेदमग्र आसीत् ।

सोऽकामयत बहु स्यां प्रजायेय भूमानं गच्छेयमिति ।

स तपोऽतप्यत ।

स एतं व्यूढछन्दसं द्वादशाहं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

तं व्यौहत् ।

यद्व्यौहदङ्गान्येव तद्व्यौहत् ।

तस्य यानि शरीराण्यासंस्ता एवेमा मर्त्यः प्रजा अभवन् ।

अथात्मा मनोमयस्समभवत् ।

तस्य मनश्शरीरं प्राणा अभि समविशन् ।

स व्यूढ इवासीत् ।

स देवानब्रवीत्शरीरं म इच्छतेति ।

कथं त इच्छाम इति ।

समूढछन्दसा द्वादशाहेन याजयतेति ।

तथेति ।

तं समूढछन्दसा द्वादशाहनायाजयन् ।

तद्यत्समौहन्नङ्गान्येवास्य तत्समौहन् ३३९