तानीमानि षडक्षराण्यभिहिङ्ङकरोत् ।
ततष्षण्णिरमिमीत ।
तानि द्वाचशाभवन् ।
तानि पुनरेवाभिहिङ्ङकरोत् ।
ततष्षण्णिरमिमीत ।
तान्यष्टादशाभवन् ।
तानि पुनरेवाभिहिङ्ङकरोत् ।
ततष्षण्णिरमिमीत ।
तानि चतुर्विंशतिरभवन् ।
तदेव चतुर्विंशं दशममहरभवदनुष्टुप्छन्दसाम् ।
तस्मादु त्रिहिङ्कृतं साम ।
तदाहुरति त्रिवृतं स्तोमा यन्ति । न गायत्रीं छन्दांसीति ।
नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान्नो गायत्रीं छन्दांसीति ।
त्रिप्रायणा हि स्तोमास्त्रिमध्यास्त्र्युदयाः ।
एतदु गायत्रीं सर्वाणि छन्दांसि नातियन्ति ।
तदेतद्त्रिवृतश्चैव स्तोमस्य पुष्टं गायत्र्यै छन्दसो यदेष द्वादशाःअः ।
तद्ब्रह्म वै गायत्री ।
क्षत्रं त्रिवृत् ।
यत्स वज्रस्तेन क्षत्रम् ।
तदेतद्ब्रह्म च क्षत्रं चैष द्वादशाहः ।
तदु वा आहुर्ब्रह्म वै त्रिवृद् । ब्रह्म गायत्री । ब्रह्मैष द्वादशाहो । ब्रह्मैवैष सर्वो द्वादशाह इत्येव वेदितव्यम् ।
तस्यैतौ श्लोकौ
चत्वारोऽग्रे प्र वहन्ति युक्तास्ते षड्भवन्ति परमे व्योमन् ।
ते द्वौ द्वौ भूत्वा प्र पतन्ति पक्षैस्तेऽस्मिन्कस्मिन्प्रतितिष्ठन्ति गत्वा
द्वौ स्तोमौ गायत्रीं वसाते द्वौ त्रिष्टुभं जगतीं द्वौ वसाते ।
तेभ्यो महत्प्र रिरिचेति षड्भ्यस्तस्मिन्सर्वे प्रतितिष्ठन्ति गत्वा ३३८