३३७

स त्रिवृच्च पञ्चदशं च समास्यत् ।

तदेव चतुर्विंशं सप्तममहरभवद्गायत्री छन्दसाम् ।

तस्मादत्रोभे बृहद्र थन्तरे क्रियेते ।

उभो ह्येतौ बार्हतराथन्तरौ स्तोमौ ।

रथन्तरं वै मात्रायामत्र स्याद् । अथ बृहत्पृष्ठं क्रियते ।

सप्तदशं च त्रिणवं च समास्यत् ।

तदेव चतुश्चअत्वारिंशमष्टममहरभवत्त्रिष्टुप्छन्दसाम् ।

तस्मादत्र रथन्तरं पृष्ठं क्रियते ।

एकविंशं च त्रयस्त्रिंशं च समास्यत् ।

ततष्षडक्षराण्यत्यरिच्यन्त ।

अथ यान्यष्टाचत्वारिंशत्पर्यशिष्यन्त तदेआष्टाचत्वारिंशं नवममहरभवत् । जगती छन्दसाम् ।

तस्मादत्र बृहत्पृष्ठं क्रियते ।

उभौ ह्येतौ बार्हतौ स्तोमौ । रथन्तरं वै मात्रायामत्र स्याद् । अथ बृहत्पृष्ठं क्रियते ३३७