स पञ्चदश स्तोमोऽभवत् ।
अपरे द्वे आदत्त ।
स सप्तदश स्तोमोऽभवत् ।
अपराणि चत्वार्यादत्त ।
स एकविंश स्तोमोऽभवत् ।
तदर्धेन गायत्री विषुवन्तमगच्छत् ।
अपराणि षडादत्त ।
स त्रिणव स्तोमोऽभवत् ।
अपराणि षडादत्त स त्रयस्त्रिंश स्तोमोऽभवत् ।
सोऽतः पराचीनं न प्राविन्दत् ।
स षक्षतेमान्येव वीर्याणि संस्तुतानि प्रत्यपधावानि द्वे द्वेऽहनी समस्यानीति ३३६