तस्य यत्प्रथममुल्बमपालुम्पंस्तत्कृष्णायस्समभवत् ।
यद्द्वितीयमुल्बमपालुम्पंस्तद्र जतमभवत् ।
यत्तृतीयमुल्बमपालुम्पंस्तद्धरितमभवत् ।
तस्मात्तत्त्विषिमत्तमम् ।
तत्तद्ध्यस्याध्यात्ममासीदथ यज्जरायु नाड्यामासीत् ।
तल्लोहमभवत् ।
तस्मात्तद्दुर्गन्धितमम् ।
तानि सप्तदशैवाक्षराण्यजायन्त ।
तानि द्वेधा व्यौहन्नवान्यान्यष्टावन्यानि ।
स एव त्रिवृच्च स्तोमोऽभवद्गायत्री च छन्दः ।
स षक्षतायं स्तोम इदं छन्द इमौ वाव तस्मा अलं यत्प्रजनयेताम् ।
हन्तैमावेव प्रजनयतमिति ब्रवाणीति ।
स त्रिवृता स्तुत्वाब्रवीद्गायत्रीं विभव । यावत्यसि तावत्येधीति ।
साष्टाक्षरा सत्यक्षराणि त्र्यक्षराण्यकुरुत ।
तानि चतुर्विंशतिरभवन् ।
सोऽस्यै गायत्र्यै चतुर्विंशत्यक्षरायै षडक्षराण्यादत्त ३३५