इति हैवेदमग्र आस ।
तदकामयत बहुस्यां प्रजायेय भूमानं गच्छेयमिति ।
तन्मनोऽमनुत ।
तस्य द्वितीयं वित्वावितराह्वयमैत् ।
तस्माद्द्वितीयं वित्वावितराह्वयमेति ।
तदनेन मनसा सहातप्यत ।
मनो ह वाव तपः ।
तत्तप्यमानं वाचमसृजत ।
ताभ्यामस्तुत स्तो मे स्तो म इति ।
यत्स्तो म इत्यब्रवीत्तत्स्तोमस्य स्तोमत्वम् ।
स्तुवत एनेन स्वा अयं न श्रेष्ठ इति य एवं वेद ।
तावेवैतौ स्तोमावभवतां पराङ्च पूर्वाङ्च ।
तौ प्राणापानौ । तेऽहोरात्रे । तौ पूर्वपक्षापरपक्षौ । ताविमौ लोकौ । ताविन्द्रा ग्नी । तौ मित्रावरुणौ । तावश्विनौ । तद्दैव्यं मिथुनं । यदिदं किं च द्वन्द्वं तदभवताम् ।
तौ ह स्म प्रजापतावेवान्तस्सम्भवतः ।
तदिदं मनो वाचमस्कन्दत् ।
स हिरण्मयो गर्भोऽधीयतामृतः ।
एष वै मृत्युर्यदग्निः ।
तस्मिन्यद्धिरण्यं प्रास्यन्ति कल्याणतरं भवति ।
सोऽयं गर्भोऽजायत ।
तं जातममृजन्यथा वत्सं जातं माता लोह्यादेवम् ३३४