३३३

अथ यदवसं कुर्म इत्युपरत्येव वा उपविमुच्येवावसं कुर्वते ।

उपरत्येव हि द्वितीयस्याह्न इळा निधनं गच्छति ।

अथ यत्परि वा प्लवामहा इति परिप्लुत्येव हि तृतीयस्याह्न इळानिधनं गच्छति ।

अथ यत्सता सदप्यदध्मेतीळाभिरिळाः पशुभिः पशूंस्तत् ।

तदेतत्सता सदपिहितम् ।

अथ यत्पशून्विच्छिन्दन्त षमेति विच्छिन्नेव वा एषा यदध्यर्धेळान्नकृता ।

पशवो वा इळा ।

तस्मात्पशून्विच्छेदं विकारं भुञ्जते ।

अथ यदागच्छामेतीहेत्यस्यामेवैतत्प्रत्यतिष्ठन् ।

अथो तेभ्य एवैतत्पशुभ्यो भिषजितम् ।

यज्मादेषा समाना सतीळाविभक्तिरथ नाना भवति । तस्मान्नानारूपाः पशवः ।

नानारूपमेनाननु प्रजायते ।

यदृचारभते तत्प्रथमस्याह्नो रूपम् ।

परिष्टुब्धं द्वितीयस्योभयतःपरिष्टुब्धं तृतीयस्यानुतुन्नं चतुर्थस्याभ्यस्तं पञ्चमस्येहकारेणाभ्यस्तं षष्ठस्य ।

यस्मादेषा समाना सती स्वरविभक्तिरथ नाना भवति तस्मादयं वायुर्यथर्तु पवत शीतो हेमन्तम् । उष्णो ग्रीष्मम् ।

इन्द्रे ति प्रथमस्याह्नो विभक्तिरिन्द्र मिति द्वितीयस्येन्द्रे णेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्रा दिति पञ्चमस्येन्द्र इत्येव पुनष्षष्ठस्य ।

यस्मादेषा समाना सतीन्द्र विभक्तिरथ नाना भवति तस्मादसावादित्यो यथर्तु तपति शीतो हेमन्तम् । उष्णो ग्रीष्मम् ३३३