३३२

देवा वै पृष्ठ्ये षडहे श्रियमैच्छन् ।

तामग्न इति प्रथमेऽहन्नान्वविन्दन् ।

तामग्निमिति द्वितीयऽहन्नान्वविन्दन् ।

तामग्निनेति तृतीयेऽहन्नान्वविन्दन् ।

तामग्निरित्येव चतुर्थेऽहन्नन्वविन्दन् ।

भूतमेवोत्तरेऽन्ववदताम् ।

यस्मादेषा समाना सत्यग्निविभक्तिरथ नाना भवति य एते प्रविष्टाः ।

अथो हाम्यैतैरेवाग्निभिस्सर्व ऋतवोऽग्निमन्तो भवन्ति ।

प्रसृतेळा प्रथमस्याह्न । ऊर्ध्वेळं द्वितीयं । परिष्टुब्धेळं तृतीयम् । इळाभिरिळं चतुर्थम् । अध्यर्धेळं पञ्चमम् । इहकारेणाभ्यस्तेळं षष्ठं च ।

अथो ह वास्यस्को नैमिशीयान्पप्रच्छ किं प्रथमेनाह्ना कुरुध्वमिति ।

प्रैमेति ।

किं द्वितीयेनेति ।

अवसं कुर्महा इति ।

किं तृतीयेनेति ।

परि वा प्लवामहा इति ।

किं चतुर्थेनेति ।

सता सदप्यदध्मेति ।

किं पञ्चमेनेति ।

पशून्विच्छिन्दन्त षमेति ।

किं षष्ठेनति ।

आगच्छामेति होचुः ।

अथो तेभ्य षेतत्पशुभ्यो भिषज्यामेति ।

तद्यत्प्रैमेति प्रव वा एतत्सार्यते यत्प्रैति ।

प्रसृतेळा प्रथमस्याह्नः ३३२