यस्मादेषा समाना सती षडहविभक्तिरथ नाना भवति । तस्मान्नानारूपस्संवत्सरो नानारूपमेनमनु प्रजायते ।
अग्न इति प्रथमस्याह्नो विभक्तिर् । अग्निमिति द्वितीयस्याग्निनेति तृतीयस्याग्निरिति चतुर्थस्याग्नेरिति पञ्चमस्याग्न इत्येव पुनष्षष्ठस्य ।
तावेतावन्तौ सन्धत्त ।
एतदन्वनन्तस्संवत्सरः ।
तस्यैतावन्तौ यद्धेमन्तश्च वसन्तश्च ।
एतदनु ग्रामस्यान्तौ समेत । एतदनु निष्कस्यान्तौ समेत । एतदन्वहिर्भोगान्पर्याहृत्य शये ।
तदेतदन्नम् ।
तं देवचक्रमक्षितं पुनर्नवमा च परा च परिवर्तते ।
स य एतदेवं वेदैतामेवानन्ततामेतामक्षितिमेतां पुनर्नवतां जयति ।
अग्न आ याहि वीतय
इति ह्वयन्त्येवैनमेतेन । अग्निं दूतं वृणीमह इति वृणत एवैनमेतेन ।
अग्निनाग्निस्समिध्यत
इति समेवैनमेतदिन्धते ।
अग्निर्वृत्राणि जङ्घनद्
इति व्येवैतेनैतज्जयन्ते ।
तव श्रियो चर्ष्यस्येव विद्युत
इति श्रियमेवास्मिन्नेतद्दधति ।
यो वै षष्ठस्याह्नो विभक्तिं वेद सर्वमायुरेति ।
जातवेदस इति वै षष्ठस्याह्नो विभक्तिरग्न इति च ।
सर्वमायुरेति य एवं वेद ३३१