एति प्रेत्याशुमद्वीतीमद्रुक्मवत्तेजस्वद्युञ्जानं प्रथमस्याह्नो रूपं । त्रिवृत स्तोमस्य । गायत्र्यै छन्दसो । रथन्तरस्य साम्नः ।
वृषवद्वृत्रहवद्र यिमद्विश्ववदुपस्थितं द्वितीयस्याह्नो रूपं । पञ्चदशस्य स्तोमस्य । त्रिष्टुभश्छन्दसो । बृहतस्साम्नः ।
उद्वत्त्रिवद्दिग्वद्गतवत्पुराणवत्तृतीयस्याह्नो रूपं । सप्तदशस्य स्तोमस्य । जगत्यै छन्दसो । वैरूपस्य साम्नः ।
राजन्वज्जनद्वद्विराट्सूर्यवच्चतुर्थस्याह्नो रूपम् । एकविंशस्य स्तोमस्य । अनुष्टुभश्छन्दसो । वैराजस्य साम्नः ।
चित्रवच्छिशुमत्पङ्क्त्यश्शक्वर्यो व्यूनाक्षरा गोमद्वृषभवद्वज्र्यभिमत्पञ्चमस्याह्नो रूपं । त्रिणवस्य स्तोमस्य । पङ्क्तेश्छन्दसश् । शाक्वरस्य साम्नः ।
परिवत्प्रतिवत्सप्तपदा द्विपदा विनाराशंसं गोमद्वृषभवद्वज्र्यभिमत्षष्ठस्याह्नो रूपं । त्रयस्त्रिंशस्य स्तोमस्यातिच्छन्दसश्छन्दसो । रैवतस्य साम्नः ३३०