ते बृहद्र थन्तरे एतानि रूपाणि प्रत्यौहतां वैरूपं वैराजं महानाम्नी रेवतीरिति ।
अथ बृहती प्रत्यौहद्विराजं शक्वरीं रेवतीमिति ।
तानीमान्यत्यायन् ।
तानि देवा अन्वपश्यन्यथा मत्स्यमूर्म्या यन्तमनुपश्येदेवम् ।
तानि सप्तमेऽहन्समुदमज्जन्यथा मत्स्यास्समुन्मज्जयुरेवम् ।
तान्येतानि छन्दोमेषु सर्वाणि संसृज्यन्ते ।
एतद्बृहत्यां बृहद्भवति । बृहत्यां रथन्तरम् ।
स यथोग्रगाधे संरभ्यातीयादेवमेवैतं तृतीयं त्रियहं देवा अत्यायन् ।
त एतं स्वर्गं लोकमागच्छन्नेतद्दशममहः ।
एष वाव स्वर्गो लोको यद्दशममहः ।
तच्चतुर्विंशं भवति ।
ततो या विंशतिर्विराट्सा ।
अथ याश्चतस्रस्तदेव ब्रध्नस्य विष्टपम् ।
तस्मिन्नेतद्देवास्सर्वान्कामान्दुह्रे ।
उपसृजन्धरुणं मात्रे मातरं धरुणो धयन्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहे
ति जुहोति ।
स यं कामं कामयेत तं ध्यायेत् ।
एतस्यां हुतायां स हैवास्मै कामस्समृध्यत एवंविदे ।
किमु नैवंविदे समृध्येतेति ह स्माह शाट्यायनिः ३२९