न होता चनानुष्टुभश्शंसति । विराज एव स शंसति ।
ते देवा अब्रुवन्नियमियं यज्ञमसृष्टैतानन यजामहा इति ।
ते बृहतीमब्रुवन्निदं नस्त्वं तृतीयमहर्वह ।
अभिजितं वै नस्सत्तदव्याप्तमिति ।
सद्ध वै बृहती भवति यत्सा पृष्ठं भवति ।
सैतद्बृहती तृतीयमहरूढ्वा नाकामयत वोढुम् ।
त इयमेव लोकं रथन्तरेणाजयन्नन्तरिक्षं बृहत्यामुं बृहता ।
त एतेन त्र्यहेण व्यजयन्त ।
तद्यथा विजितेन यन्ति सैन्धवानजन्ति हस्तिनं वहन्ति धूर्गृहीतं रथं याति हुलुभ्यां याति विच्छिद्वहाभ्यामेवं गर्दभरथेन ।
एवमेतं द्वितीयं त्र्यहं देवा अत्यायन् ३२८