३२७

साष्टाभिरेवाक्षरैः प्रथममहरतनुत । एकादशभिर्द्वितीयं । द्वादशभिस्तृतीयम् ।

अक्षरमेव त्र्यक्षरं पर्यशिष्यत ।

तदेवोत्तरं त्र्यहमनुव्यदधात् ।

सैतं पृष्ठ्यं षडहमतनुत ।

सैतं पृष्ठ्यंषडहं तत्वैक्षत केन न्विमं तृतीयं त्र्यहं तन्वियेति ।

स्वात्मानमेवापश्यद् । यो न्वाव मेऽसावात्मा सोऽयम् ।

हन्तैनमात्मन एवाधि तनवा इति ।

साष्टाभिरेवाक्षरैस्सप्तममहरतनुतैकादशभिरष्टमं । द्वादशभिर्नवमम् ।

अथ यदक्षरं पर्यशिष्यत तदेवैतद्द्वादशाहस्य दशममहरभवत् ।

सैषा श्रान्ता विकृष्टाशये वाग्यज्ञमूहिषी कालिलिमत्ता यथा सिंही वा विजाता स्याद्व्याघ्री वा शिंशुमारी वैवम् ।

तां यदेतर्हि प्रत्यक्षमालभेरन्व्याप्तमस्या आपद्येरन् ।

यद्यु वा सा इयुरेतस्मात्सर्वस्मादियुः ।

तामेतां परोक्षमनुष्टुभं कुर्वन्ति ३२७