३२६

एकं वावेदमग्रेऽक्षरमासीद्वागेव ।

साकामयत बह्व्यसानि । प्रजायेय । भूमानं गच्छानि । यज्ञं तनवा इति ।

सा स्वाहा स्वाहा स्वाहेत्येव द्वादशकृत्वोऽजुहोत् ।

सा त्रिंशतं त्रिंशतमेवासिनोत् ।

त्रिंशदक्षरो एवात्मनाभवत् ।

तस्यै पश्चेवाक्षरे उपोदसर्पताम् ।

सैवैषानुष्टुबभवत् ।

तस्मादेतद्योषितः पश्चेव स्तनावुपोत्सर्पतः ।

सैषा विराडेव स्तनिनी ।

सा यत्तद्द्वादशकृत्वोऽजुहोदेतानेव तद्द्वादश मासोऽसृजत ।

तान्येवैतानि द्वादशाहस्य द्वादशाहान्यभवंस् । त एव चतुर्विंशतिरर्धमासा अभवंस्तान्येव सप्त च शतानि विंशतिं चाहोरात्राण्यभवन् ।

सैतं संवत्सरं यज्ञमसृजत ।

एष ह वाव यज्ञो यस्संवत्सरः ।

सा नावेद्यज्ञं वा असृक्षीति ।

किमु चिदसृक्षीत्येवामन्यत ।

तां मोदः प्रत्यागच्छत् ।

ततोऽवेद्यज्ञं वा असृक्षीति ।

सैक्षत यमिदं यज्ञमसृक्षि हन्तैनमात्मन एवाधि तनवा इति ३२६