३२५

त्रिवृता गायत्र्यकल्पत । पञ्चदशेन त्रिष्टुप् । सप्तदशेन जगत्य् । एकविंशेनानुष्टुप् । त्रिणवेन पङ्क्तिस् । त्रयस्त्रिंशेन विराट् । पञ्चविंशेन बृहत्य् । अष्टादशनवदशाभ्यामुष्णिक्ककुभौ ।

ता या नव गायत्र्यश्चतुर्विंशतिस्ते त्रिवृतः ।

अथ या पञ्चदश त्रिष्टुभश्चतुश्चत्वारिंशत्ते पञ्चदशाः ।

अथ यास्सप्तदश जगत्योऽष्टाचत्वारिंशत्ते सप्तदशाः ।

अथ या एकविंशतिरनुष्टुभो द्वात्रिंशत्त एकविंशाः ।

अथ यास्सप्तविंशतिः पङ्क्त्यश्चत्वारिंशत्ते त्रिणवाः ।

अथ यास्त्रयस्त्रिंशद्विराजस्त्रिंशत्ते त्रयस्त्रिंशाः ।

अथ याः पञ्चविंशतिर्बृहत्यष्षट्त्रिंशत्ते पञ्चविंशाः ।

अथ या अष्टादशनवदशोष्णिक्ककुभोऽष्टाविंशतिस्तेऽष्टादशनवदशाः ३२५