तौ पञ्चदशं चैकविंशं च व्यूह्य मध्ये समभवताम् ।
स एवैष प्रजापतिस्सप्तदशोऽन्नाद स्तोमोऽभवत् ।
तस्मै त्रिवृत्पञ्चदशावित स्तोमौ बलिं कुरुत । एकविंशस्त्रिणवस्त्रयस्त्रिंशः परस्तात् ।
तामब्रवीत्सम्भवं छन्दांसि त्वं प्रजनयतात् । स्तोमानहं प्रजनयिष्यामीति ।
सोऽयं त्रिवृत्स्तोमश्चतुष्टोमं चतुर्दशं षोडशमष्टादशं नवदशं पञ्चविंशं षट्त्रिंशमित्येतान्मृगस्तोमान्प्राजनयत् ।
अथ गायत्री एकपदां द्विपदामक्षरपङ्क्तिं विष्टारपङ्क्तिं विराजमतिच्छन्दसममितं छन्द इत्येतानि मृगच्छन्दसानि प्रायायत ।
सैषा स्तोमानां च छन्दसां च प्रजापतिः ।
तद्ध शौनकं कापेयं चैकतानेयः पप्रच्छ यत्षडुत्तरेण वै स्तोमाः प्रजनयन्ति । चतुरुत्तरेण छन्दांस्य् । अथ कौऽयमषडुत्तरी स्तोमस्सप्तदश आक्षिस्सन्मध्ये व्यवहित इति ।
स होवाच स्तोमाश्च छन्दांसि च यन्न प्रजायन्त स एवैष प्रजापतिस्सप्तदशो मध्ये व्यवक्रम्य प्रजनयन्नतिष्ठत् ।
स यो वा एतमाक्षितं वेदाक्षिद्वै स सर्वत्रैव भवति ।
अनाक्षिद्वा एष यत्प्रजापतिः ।
सर्वं हीदं प्राजापत्यमिति ।
ते हैत आक्षित इव चैकितानेयाः ।
तानीमानि छन्दांसि स्तोमैरकल्पन्त ३२४