३२३

स पञ्चदश स्तोमोऽभवत् ।

चत्वारीयमादत्त ।

सानुष्टुबभवत् ।

षडितर आदत्त ।

स एकविंश स्तोमोऽभवत् ।

चत्वारीयमादत्त ।

सा बृहत्यभवत् ।

षडितर आदत्त ।

स त्रिणव स्तोमोऽभवत् ।

चत्वारीयमादत्त ।

सा बृहत्यभवत् ।

षडितर आदत्त ।

स त्रिणव स्तोमोऽभवत् ।

चत्वारीयमादत्त ।

सा पङ्क्तिरभवत् ।

षडितर आदत्त ।

स त्रयस्त्रिंश स्तोमोऽभवत् ।

तदेषोऽन्तमगच्छत् ।

चत्वारीयमादत्त ।

सा त्रिष्टुबभवत् ।

अपराणि चत्वार्यादत्त ।

सा जगत्यभवत् ।

तावन्तमगच्छतां तामब्रवीन्न वा अतः पराञ्चौ प्रजनयिष्याव । एहि । यावदक्षरैवाग्रेऽभूस्तावदक्षरा भूत्वेति ।

साष्टाक्षरैव भूत्वै त् ।

तस्मादेतत्पतिर्यथाकामं जायां नेनीयते ३२३