३२२

स प्रतिगरससुद्गीथस्तदाश्रावणम् ।

तस्मादोमिति प्रणौत्योमिति प्रत्यागृणात्योमित्युद्गायत्योमित्याश्रावयति ।

एतद्वा अस्ति यदभवत् ।

तामब्रवीदेतर्हि वै तस्मा अलं स्वो यत्प्रजनयेवेहि प्रजनयावेति ।

तामब्रवीत्सम्भव छन्दांसि त्वं प्रजनयतात्स्तोमानहं प्रजनयिष्यामीति ।

सोऽयं त्रिवृत्स्तोमश्चतुर्विंशतिं स्तोत्र्याः प्रायनयत् ।

अथ गायत्री चतुर्विंशतिमक्षराणि प्रजायत ।

तामब्रवीद्विभव यावत्यसि तावत्येधीति ।

साष्टाक्षरा सत्यक्षराणि त्र्यक्षराण्यकुरुत ।

तानि चतुर्विंशतिरभवन् ।

चतुर्विंशतिः पूर्वाणि ।

तदस्या अष्टाचत्वारिंशत्प्रजातमासीत् ।

सेयं गायत्री चत्वार्यक्षराण्यादत्त ।

सोष्णिगभवत् ।

षडितर आदत्त ३२२