प्रजापतिर्वावेदमग्र आसीत् ।
सोऽकामयत बहु स्यां प्रजायेय भूमानं गच्छेयमिति ।
सोऽष्टादशैवाक्षराणि प्रजायत ।
तानि द्वेधा व्यौहन्नवान्यानि नवान्यानि ।
स एव त्रिवृच्च स्तोमोऽभवद्गायत्री च छन्दः ।
सोऽयं सम्पूर्णस्त्रिवृत्स्तोम आसीद् । अथ गायत्री प्रणवनवमासीत् ।
प्रणवस्तस्यै नवम आसीत् ।
तामयं त्रिवृत्स्तोमोऽब्रवीद्गायत्रीमेहि सम्भवावेति ।
तौ समौ सन्तौ नाशक्नुतां सम्भवैतुम् ।
तामब्रवीन्न वैतर्हि शक्ष्यावस्समौ सन्तौ सम्भवितुम् ।
यत्त एतन्नवममक्षरं तदुदूहस्वेति ।
तत्किं भविष्यति ।
यदेवास्ति तद्भविष्यतीति ।
तथेति ।
तदुदौहत ।
स एव प्रणवोऽभवत् ३२१