विषुवत्कं वा एतत्सत्रं यद्द्वादशाहः ।
स य एतस्य सत्रस्य विषुवन्तं वेद श्रीर्वै विषुवान्विशुवाञ्श्रेष्ठ स्वानां भवति ।
पुरुषो ह वा एतस्य सत्रस्य विषुवान् ।
पुरुषो ह्येषां लोकानां विषुवान् ।
इमे वै लोका एष द्वादशाहोऽहमस्य सत्रस्य विषुवानस्मीत्येव मन्यमान एतेन द्वादशाहेन यजेत ।
तस्य हैतस्मिन्नेव सत्रे विषुवानुपेतो भवति ।
स वा एषोऽहन्नेव प्रतिष्ठितः ।
प्रायणीयमहर्द्वितीयमहस्तृतीयमहरित्यहरहरिति भअति ।
असौ वा आदित्योऽहः ।
एतमेवैतेनर्ध्नुवन्त्येतस्य सलोकतां गच्छन्त ३२०