पदोरेव प्रतिमा पूर्वोऽतिरात्रः ।
नव पुरुषे प्राणाः ।
स त्रिवृत् ।
त्रिवृत्प्रायणीयमहः ।
तेन तत्सम्पन्नम् ।
दश हस्त्या अङ्गुलयश्चत्वार्युरोर्बाह्वाणि ।
यदूर्ध्वं नाभेस्तत्पञ्चदश ।
पञ्चदशं द्वितीयमहः ।
तेन तत्सम्पन्नम् ।
दश हस्त्या अङ्गुलयस् । सप्त शीर्षन्प्राणाः ।
तत्सप्तदश ।
सप्तदशं तृतीयमहस्तेन सम्पन्नम् ।
दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशः ।
एकविंशं चतुर्थमहः ।
तेन तत्सम्पन्नम् ।
दश हस्त्या अङ्गुलयो । दश पद्या । सप्त शीर्षन्प्राणाः ।
तत्सप्तविंशतिः ।
सप्तविंशं पञ्चममहः ।
तेन तत्सम्पन्नम् ।
दश हस्त्या अङ्गुलयो । दश पद्या । दश प्राणा । मनो वाग्घृदयं । तत्त्रयस्त्रिंशत् ।
त्रयस्त्रिंशं षष्ठमहः ।
तेन तत्सम्पन्नम् ।
प्राणा एव सप्तममहर्गायत्रम् ।
चक्षुरेवाष्टममहस्तरिष्टुभम् ।
श्रोत्रमेव नवममहर्जागतम् ।
वागेव दशममहरानुष्टुभम् ।
अथ यदूर्ध्वं श्रोत्राभ्यां तदुत्तरोऽतिरात्रः ।
प्राण एव पूर्वोऽतिरात्र । उदान उत्तरः ।
तौ प्रायणीयोदयनीयाविति परोक्षमाचक्षते ।
प्रति प्राणापानयोस्तिष्ठति । अन्प्राणापानाभ्यां व्यथते । सर्वमायुरेत्य् । एवं वै सर्वो द्वादशाह आत्मानमभिसम्पद्यते । सर्व एनं कामा अभिसम्पद्यन्ते । य एवं वेद ३१९